76. शिक्षकः कक्षायां शिक्षण उपादानानाम् उपयोगः करोति । अनेन-
(A) मनोरंजनं भवति
(B) पाठः कुशलतया प्रचलति
(C) पाठेन सह धनव्ययः अपि भवति
(D) शिक्षणं बोधगम्यं सरलं च भवति
Show Answer
Hide Answer
77. संस्कृत पद्य पाठस्य सर्वाधिकं महत्त्वपूर्णं सोपानं भवति-
(A) प्रस्तावना
(B) आदर्शवाचनम्
(C) समभावी पद्यम्
(D) भावविश्लेषणम्
Show Answer
Hide Answer
78. आदर्श शिक्षकाय भाषायां आवश्यकं अस्ति-
(A) व्याकरणस्य ज्ञानम्
(B) साहित्यस्य ज्ञानम्
(C) शुद्धोच्चारणम्
(D) सर्वमेव
Show Answer
Hide Answer
निर्देश: अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (प्रश्न संख्या 79-82) समुचितानि उत्तराणि चिनुत-
एकं श्लोकं अधीत्य शोक सन्तप्तो मुञ्जः प्रायश्चित्तं कर्तुं आत्मनो वनौ प्रवेशनं निश्चितवान्। राज्ञः वहिन प्रवेश कार्यक्रमं श्रुत्वा वत्सराजः बुद्धिसागरं नत्वा शनैः-शनैः प्राह-तात! मया भोजराजोरक्षित एवास्ति, पुनः बुद्धिसागरेण तस्य कर्णे किमपि कथितम्, यन्निशम्य वत्सराजः ततो निष्क्रान्तः । पुनः राज्ञो वह्निप्रवेशकाले कश्चन कापालिकः सभां समागतः । सभामागतं कापालिक दण्डवत् प्रणम्यमुञ्जः प्रावोचत् – हे योगीन्द्र ! महापापिनोमया हतस्य पुत्रस्य प्राण दानेन मां रक्षेति । अथ कापालिकस्तं प्रावोचत् – राजन् ! मा भैषीः । शिवप्रसादेन स जीवितो भविष्यति । तदा श्मशानभूमौ कापालिकस्य योजनानुसारं भोजः तत्र समानीतः ‘योगिना भोजो जीवितः’ इति कथा लोकेषु प्रसृता । पुनः गजेन्द्रारूढो भोजो राजभवनमगात्। सन्तुष्टो राजा मुञ्जः भोजं निजसिंहासने निवेश्य निज पट्टराज्ञीभिश्च सह तपोभूमिं गत्वा परं तपस्तेपे । भोजश्चापि चिरं प्रजाः पालितवान् ।
(A) बुद्धिसागरः
(B) वत्सराजः
(C) मुञ्जः
(D) कापालिकः
Show Answer
Hide Answer
80. तपोवनं गत्वा कः तपस्तेपे?
(A) भोजराजः
(B) कापालिकः
(C) मुञ्जः
(D) वत्सराजः
Show Answer
Hide Answer
81. ‘नत्वा’ इत्यर्थे पदं प्रयुक्तं भवति-
(A) नमित्वा
(B) प्रणत्वा
(C) प्रणित्वा
(D) प्रणम्य
Show Answer
Hide Answer
82. ‘सन्तप्तः’ इत्यत्र प्रयुक्तः प्रत्ययः अस्ति-
(A) सन्
(B) तप्तः
(C) प्तः
(D) क्त
Show Answer
Hide Answer
निर्देशः अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (प्रश्न संख्या 83 – 86) समुचितानि उत्तराणि चिनुत –
परिवर्तनशीलेऽस्मिन् जगति यदा मानवः व्यवस्थितरीत्या संघटनेन च स्वजीवनस्य निर्वाहः आरब्धवान् ततः प्रभृतिरेव राजनीतिः समारब्धा इति स्वीकर्तुं शक्यते। अतः राजनीतिक चिन्तनस्येतिहासः मानव सभ्यतायाः विकासा देव प्रारब्धः । प्राक्तने भारते राजनैतिक चिन्तनम् अतीव गम्भीरतया जातम्। तस्मिन् युगे शासन-पद्धतिः बहुमुखी भूय विकसिता। अतः तस्मिन् युगे राजनीतेः अध्ययनाय विभिन्नाःग्रन्थाः आसन्। यथा-मनुस्मृतिः, महाभारतम्, कौटिलीयार्थशास्त्रम् इत्यादयः।
सामान्यतया कविपरम्परा राजनीतेः आत्मानं दूरमेव स्थापयति, परन्तु अपवादस्वरूपेण केचन, एतादृशाः अपि कवयः प्रादुर्भूताः यैः राजनीतेः मन्थनं कृतम् एतेषां काव्येषु न केवलं राजनैतिकं नैपुण्यं दृश्यते, अपितु एतेषां काव्यग्रन्थानामध्ययनेन एवं प्रतीयते यत् तत्र मुख्यधारा राजनीतिरेव वर्तते । एतादृशाः महाकवयस्सन्ति माघः, कालिदासः, श्रीहर्षादयः । तेषु अन्यतमो विलसति महाकवि भारविः। अस्य ‘किरातार्जुनीयम्’ इति महाकाव्यं बृहत्त्रय्यां विशिष्टं स्थानं भजते ।
83. उपर्युक्तस्य गद्यखण्डस्य वर्ण्यविषयमस्ति –
(A) भारतीयाः महाकवयः
(B) राजनीतिः
(C) ऐतिहासिकाः ग्रन्थाः
(D) कश्चिदन्यः
Show Answer
Hide Answer
84. ‘आरब्धवान्’ इत्यस्मिन् पदे प्रत्ययः प्रयुक्तः अस्ति-
(A) वतुप्
(B) मतुप्
(C) क्तवतु
(D) शतृ
Show Answer
Hide Answer
85. ‘परिवर्तनशीलेऽस्मिन्’ अत्र सन्धिः अस्ति-
(A) पूर्वरूप सन्धि
(B) पररूप सन्धि
(C) यण् सन्धि
(D) अयादि सन्धि
Show Answer
Hide Answer
86. लेखकस्य मतानुसारेण मानव सभ्यतायाः विकासादेव कस्य चिन्तनं प्रारब्धम् ?
(A) ऐतिहासिकं चिन्तनम्
(B) जीवन निर्वाहस्य चिन्तनम्
(C) राजनैतिक चिन्तनम्
(D) शास्त्राणां चिन्तनम्
Show Answer
Hide Answer
87. ‘वेदत्रयी’ इत्यत्र त्रयाणां वेदानां संकल्पना प्रतिपादिता अस्ति, तत्र एकस्य वेदस्य उपस्थापनं नास्ति, सोऽस्ति-
(A) ऋग्वेदः
(B) यजुर्वेदः
(C) सामवेदः
(D) अथर्ववेदः
Show Answer
Hide Answer
88. ‘महाभारत’ नामके महाकाव्ये पर्वाणां संख्या अस्ति-
(A) चतुर्दशः
(B) अष्टादशः
(C) विंशतिः
(D) न कोऽपि
Show Answer
Hide Answer
89. अग्रलिखितेषु रचनासु भासस्य रचना नास्ति –
(A) प्रतिज्ञा यौगन्धरायणः
(B) दरिद्रचारुदत्तम्
(C) मध्यम व्यायोगः
(D) ऋतुसंहारः
Show Answer
Hide Answer
90. ‘ऐतरेयशांखायनौ’ कस्य वेदस्य ब्राह्मणग्रन्थौ स्तः ?
(A) ऋग्वेदस्य
(B) यजुर्वेदस्य
(C) सामवेदस्य
(D) अथर्ववेदस्य
Show Answer
Hide Answer